Monday, May 27, 2013

चक्षुर्मात्र ग्राह्यो गुणो रूपम् |

तर्कसंग्रहकारेण अस्य व्यख्यायां लिखितं यत् प्रत्येकं शब्दस्य प्रयोजनमत्र वर्तते -

चक्षु र्शब्दो आवश्यक: येन अन्येन्द्रियेषु अतिव्यप्ति: मा स्यात् | चक्षुषा स्वादो न ग्रहीतुं शक्यते | तत्तु रसनया एव |
 पुन श्च "मात्र" शब्दो वर्तते | संख्यादौ अतिव्यप्तिं निवारणार्थं मात्रशब्द:| वस्तूनां संख्या हस्तेन त्वगिन्द्रियेण अपि क्रियते परन्तु अत्र केवलं चक्षुषा ग्रहणम् एव विवक्षित,म् | अत: मात्र शब्द: |

रूपस्य ग्रहणे तस्य रूपत्वस्य संनिवेशं निवारयितुं "गुण:" शब्द: |

तच्च शुक्लनीलपीतहरितरक्तकपिशचित्रभेदात्सप्तविधं   पृथिवीजलतेजोवृत्ति |
 पृथिव्यां सप्तविधम् | अभास्वरशुक्लं जले | भास्वरशुक्लं तेजसि |

रूपस्य सप्तविधं विभाजनं क्रियते | श्री-अन्नंभट्टमहोदयेन लिखितं यत् रूपस्य सप्त्भेदेषु चित्ररूपम्  अपि एकम् | अत्र मतद्वयम् - 1. कतिपयानाम् अव्याप्यवृत्तीनां रूपाणां समूह एव चित्रं वर्तते |
                                           - एतदनुसारं अवयवान् एव स्वीकर्तुं अवयवीं च स्वीकर्तुं न शक्यते |
                                      2. श्री-अन्नंभट्ट: एतं मतं न स्वीकरोति |

भासयुक्तरूपं तेजसि वर्तते यतो हि तेजो भासते | जलं न भासते अत: अभास्वरशुकलम् उच्यते |

Thursday, November 29, 2012

वाराणसी

नमस्कार: !

केभ्यश्चित् लेखेभ्य: पूर्वं मया लिखितं यत् अहं वाराणसीयात्रया : विषये लेखयिष्यामि | अतएव अद्यतन: लेख: |

यात्राया: प्रत्येकं दिवस: उत्तम: आसीत् , वाराणसी आसीत् खलु !
रेलयाने  अस्माकं हर्षस्य उत्साहस्य च सीमा एव न आसीत् | ओक्तोबरमासस्य पञ्चदिनाङ्के रेलयानम् अभवत अस्माकं सहचारि | गीतानामन्त्याक्षरी कृतवती  वातावरणं शोभनम् ...अत्यधिकशोभनम् | चिन्तयामि यत् यावत् वयं गीतवत्य: तावत्  न को पि  शेतुं शक्तवान् स्यात्  ...तिष्ठतु..न चिन्तयामि..सत्यमेव न को अपि शेतुं शक्तवान् ...इयत्त्रीव: धवनि: !!

अन्त्याक्षर्या: एकस्मिन् दले उत्तमा: गायिका: आसन् , द्वितीये च आसन् मया सदृशा:,,,परं  च नासीत् काचित् समस्या तत्र |........"यारा तेरे सदके इश्क सिखा ..तुम्ही हो बंधू सखा तुम ही ...ह!!!!!!..."

Wednesday, November 14, 2012

प्रत्येकेन बिन्दुना घट: पूर्यते

प्रयास: क्रियते मया प्रत्येकं दिवि उन्नत्यर्थं परन्तु सफ़लता अस्ति किंचिद् दूरे |

औन्ग सान सू ची, बर्मादेशस्य एनएलडी दलस्य सदस्या अस्माकं महाविद्यालयं आगमिष्यति |
सज्जता भवति महाविद्यालये प्रत्येक अहनि तस्या: स्वागतार्थम्  | अहमपि तस्य आयोजनस्य  अंश: भविष्यामि | सामुहिकगायने ममापि अस्ति एकं स्थानम् |

परह्य: मम स्थानं दलस्य अन्तिमतमे स्थाने विहितं आयोजनस्य निर्देशकेन | मम हृदयं तु अतीव दु:खितं जातम्  | अहं चिन्तितवती यत् प्रतिभागिताम्  एव त्यजेयम् |

अद्य, दृष्टवती अहं ता: सर्वा: छात्रसहायिका: या: आयोजनम्  सफ़लं कर्तुं कार्यरता: सन्ति | ता: सर्वा: स्वस्थानं न विचिन्त्य केवलं कार्य विषये चिन्तयन्ति | आयोजनं सफ़लम्  कर्तुं तासां प्रयास: प्रशंसनीय : |

अतएव मया अपि निश्चयं कृतं यत् अहमपि नि:स्वार्थ भूत्वा कार्यं करिष्यामि, आयोजनं सफ़लं  करिष्यामि न तु स्वस्थान विषये चिन्तयिष्यामि यतो हि प्रत्येकेन बिन्दुना घट: पूर्यते :)

Saturday, October 20, 2012

वाराणसी !

अभवत् अस्माकं यात्रा...गतवत्य: वयं सर्वा: वाराणसीनगरम् आगत्वत्य: अपि |

शोभना वक्तव्या  सा यात्रा | वाराणसीत: किञ्चित् दूरे अस्ति सारनाथ: | अत्रैव गौतमबुद्धेन प्रथम: उपदेश: दत्त: बौद्धधर्मविषये| अत्र अस्माभि: दृष्टा: उद्यानमन्दिरसंग्रहालया: | उत्तम: आसीत् एष: अनुभव: |

मम महाविद्यालयाय धन्यवाद:|   शिवानीमहोदयायै वन्दनामहोदयायै च विशेषकृतज्ञताज्ञापनं भवेत् | तयो: करणात् सर्वं कुशलं जातम् |

आगमिलेखेषु लेखिष्यामि अस्माकम् अनुभवस्य विषये |


तावत्  पर्यन्तं नवरात्रिणां शुभकामना: |