Sunday, September 30, 2012

किञ्चित् हृदयात्

केभ्यश्चिद् दिवसेभ्य: पूर्वं  मया मम आङ्ग्ल 'ब्लोग ' इति अत्र  केचन विचारा: प्रकटिता :|
लिखितं मया यज्जीवने दु:खस्य चत्वारिंशत् प्रतिशतं अंश: तु अस्माकं चिन्तनादेव जात:| नास्ति वा? किमपि अस्माकं
पूर्वचिन्तनाद् विपरीतं स्यात्  चेत्  अस्माकं निराशा भवति |

यथा- चिन्तितं केनापि यत् स: यूरोपदेशीय व्यञ्जनं खादिष्यति परन्तु तन्न प्राप्नुयात्, तस्य भवति निराशा | सर्वेषाम् एषा एव समस्या जाता | नास्ति वा?

स्वविचारान्  वदतु |

नमो नम: |


ऐ भो !

अद्वितीयैव समस्या वर्तत अस्माकं कक्षायाम् | वयं सर्वा: गमिष्याम: वाराणसीनगरम् | एषा यात्रा  अस्मभ्य: विशेषा यतो हि प्रथमा यात्रा भविष्यति | अत: अस्माकम् उत्साह:|

यात्रायां किं नेतव्यं किं न अस्मिन्विषये अत्यधिकं चिन्तनं जातम् | अत्यधिकचिन्तनात्  अनन्तरमेव एक: परिणाम: प्राप्त: | परन्तु वयं स्म: कन्या: | एकेन परिणामेण  न भवति अस्माकं संतोष: | अतएव एकपश्चात्  द्वितीयं तदनन्तरमपि तृतीयम्  एवमेव |

अधुनापि न कोSपि निश्चित: निर्णय: | पश्याम: यात्राया: दिवसैव सर्वं ज्ञातव्यं भविष्यति |

तावत्पर्यन्तं नमो नम: |