Sunday, September 30, 2012

ऐ भो !

अद्वितीयैव समस्या वर्तत अस्माकं कक्षायाम् | वयं सर्वा: गमिष्याम: वाराणसीनगरम् | एषा यात्रा  अस्मभ्य: विशेषा यतो हि प्रथमा यात्रा भविष्यति | अत: अस्माकम् उत्साह:|

यात्रायां किं नेतव्यं किं न अस्मिन्विषये अत्यधिकं चिन्तनं जातम् | अत्यधिकचिन्तनात्  अनन्तरमेव एक: परिणाम: प्राप्त: | परन्तु वयं स्म: कन्या: | एकेन परिणामेण  न भवति अस्माकं संतोष: | अतएव एकपश्चात्  द्वितीयं तदनन्तरमपि तृतीयम्  एवमेव |

अधुनापि न कोSपि निश्चित: निर्णय: | पश्याम: यात्राया: दिवसैव सर्वं ज्ञातव्यं भविष्यति |

तावत्पर्यन्तं नमो नम: |

No comments:

Post a Comment